मन
 
ज्ञाने
 न त्वं तृणाय मन्ये, न त्वां तृणं मन्ये, "मन्यकर्मण्यनादरे विभाषा प्राणिषु'' इति कर्मणि वा चतुर्थी इह चानुवाद्ये कर्मणि व्यवस्थितविभाषाविज्ञानात् चतुर्थी न भवति अप्राणिष्वित्यपास्य [अनावादिषु]इति वार्तिकं पठितम् तेन न त्वां नावं मन्ये यावत्तीर्णं न नाव्यम्, न त्वामन्नं मन्यं यावन्न भुक्तं श्राद्धम् इत्यत्राप्राणित्वेऽपि द्वितीयैव भवति तथा प्राणित्वेऽपि न त्वां श्वानं मन्ये, न त्वां शुने मन्ये इत्यत्र उभयं भवति ( मेनेमन्ता मंस्यते मन्यताम् अमन्यत मन्येत, मंसीष्ट अमंस्त, अमंसाताम् ) एहिमन्ये ओदनं भोक्ष्यसे इति नहि ( 1 ) भोक्ष्यसे भुक्तस्सोऽतिथिभिः, अत्र "प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च'' इति प्रहासे परिहासे गम्यमाने मन्योपपदे धातावुत्तमविषये मध्यमः, मन्यतेश्च मध्यमविषये उत्तमः "एकवच्च'' इति वचनात् द्विबह्वोरप्येकवचनमेव दर्शनीयमानीभार्यायाः, "मन'' इति कर्मण्युपपदे मन्यतेर्णिनिः भार्याया इति कर्मणि षष्ठी तत्सापेक्षस्यापि दर्शनीयशब्दस्य गमकत्वात्समासः "क्यङ्मानिनोश्च'' इति क्यङन्ते मानिन्शब्दे चोत्तरपदे पुंवद्भावः पण्डितमात्मानं मन्यते देवदत्तः (पण्डितमानी, पण्डितम्मन्यः) "आत्ममाने खश्च'' इति कर्मण्युपपदे आत्ममाने वर्तमानान्यतोर्णिनिः खश्च आत्मनो मानआत्ममानः, कर्मणि षष्ठ्यास्समासः आत्मा च स्वः, स च संन्निधानान्मन्तैव, तस्य चात्मस्वरूपेण कर्तृत्वम् पण्डितत्वादिस्वरूपेण कर्मत्वमिति न विरोधः खशश्शित्त्वात् श्यन्, खित्त्वान्मुम् (मन्या,) पश्चादूग्रीवाशिरा "संज्ञायां समजनिषद'' इत्यादिना क्यप् अन्यत्रक्तिनि ( मतिः, ) "मन्त्रे वृष'' इति क्तिनो वचनमुदात्तमात्रार्थेःन तु भाषायां तन्निवृत्त्यर्थम् ( वैमत्यं, विमतिमा साम्मत्यं, सम्मतिमा, ) दृढादिषु "वेर्यातलाभमतिमनशारदानां समो मतिमनसोः''इति पाठात् ष्यञिमनिचौ "इगन्ताच्च लघुपूर्वात्'' इत्यणपि भवति, ( वैमतं, साम्मतम् )इति त्वतलौ तु सर्वत्रैवेष्येते इतृयुदाहार्यौ ( राज्ञां मतः, ) "मतिबुद्धि'' इति वर्तमाने क्तः "क्तस्य च वर्तमाने'' इति कर्तरि षष्ठी मतस्य करणं ( मत्यम्, ) तच्च भावः, साधनं वा "मतजनहलात्'' इति यत् ( मनः, ) असुन् मन एव ( मानसम्, ) प्रज्ञादित्वात् स्वार्थेऽण् असुमनास्सुमना भवति ( सुमनायते ) इत्यादौ भृशादित्वात् क्यङ्सलोपौ तत्र हि सूद्दुरभिभ्यः परो मनशब्दः पठ्यते ( वैमनस्यं विमनसिमा साम्मनस्यं सम्मनसिमा, ) "वेर्यातलाभमतिमनशारदानां समो मतिमनसोः'' इति ष्यञिमनिचौ त्रतलौ चोदाहार्यौ ( विमनीकरोति, ) "अरुर्मनश्चक्षुः'' इत्यादिना च्विः सलोपश्च मनसादेवो नाम कश्चित्, "मनस्संज्ञायाम्'' इत्युत्तरपदे तृतीयाया अलुक् "दिवः कर्म च'' इति करणत्वात्तृतीया संज्ञासमावेशेन कर्मत्वमपीति दीव्यतेः कर्मण्यण्भवतीति दीव्यतावुक्तम् (मनसाज्ञायी, ) "अज्ञायिनि च" इत्यलुक् लुकि तु मन आज्ञायीति स्यात् (वाङ्मनसम्) "अचतुर'' इत्यादिना द्वन्द्वेऽजन्तो निपातितः ( मधुः,) "फलिपाटिनमि'' इत्यादिना उप्रत्ययो धकारश्चान्त्यादेशः ( मधुरः ) "उषसुषि'' इत्यादिना मत्वर्थे रः इह मधुशब्दो रसनाग्राह्यो माधुर्याख्यरसे वर्तते तेन मधुरं मध्वित्यपि भवति इह च न भवति मध्वस्मिन् घटे ऽस्ति मधुरो घट इति इदं च "तदस्यास्त्यस्मिन्'' इति विवक्षानियमार्थस्य इतिशब्दस्यानुवर्तनाल्लभ्यते ( मनुः, ) "शृस्वृष्णिहि'' इत्यादिना उप्रत्ययः मनोस्स्त्री ( मनायी, मनावी, मनुः ) "मनोरौ वा'' इति ङीप्यैकार औकारो वान्तादेशः ( मनुष्यो, मानषुः, ) "मनोर्जातावञ्यतौ षुक्च'' इति अञ्यतौ षुक्चागमः जाताविति वचनाद् इह अपत्यग्रहणं व्युत्पत्तिमात्रार्थम् तेन मानुषाइत्यत्र "यञञोश्च'' इत्यपत्यस्याञो विधीयमानो बहुषु लुङ् न भवति ( मानुषी ) गौरादित्वान्डीष् "हलस्तद्धितस्य'' इति ईति परतस्तद्धितयकारस्य लोपः ( मानुष्यकम्, ) "गोत्रोक्ष'' इत्यादिना समूहे वुञ् अपत्ये त्वणि (मानवा) इति मनुष्या अप्यपत्यत्वारोपेण मानवा इत्युच्यन्ते यदा मानवस्य कुत्सादि विवक्ष्यते तदा
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः नकारस्य च मूर्धंन्यस्तेन सिद्ध्यति माणवः
इति नकारस्य णत्वम् अण्तु सामान्येनैव सिद्धः माणव एव ( माणवकः, ) संज्ञायां कन् ( माणव्यम्, ) "ब्राह्मणमाणव'' इति समूहे यत् ( माणवीनम्, ) "माणवचरक'' इति हितार्थे खञ् ( माणव्यम्, ) ब्राह्मणादित्वात् ष्यञ् ( मुनिः, ) "मनेरुच्चोपधायाः'' इतीन्प्रत्ययः, उपधायाश्चोकारः ( मौनम्, ) "इगन्ताच्च'' इति भावेऽण् मनु अवबोधन इति तनादौ 68