अथात्मनेपदिनोऽनिटः परामृशति।
पद
 
गतौ
 लिश्यन्ता अनुदात्ता अनुदात्तेतः (पद्यते पेदे, पेदिषे, पत्ता पत्स्यते पद्यताम् अपद्यत पद्येत, पत्सीष्ट ) लिङौ ( अपादि, अपत्साताम् ) "चिण् ते पदः'' इति कर्तरि ते चिण् ( पित्सते, ) "सनिमीमा'' इत्यादिना अच इति "स्कोः'' इति सलोपे दकारस्य चर्त्वम् "अत्र लोपोऽभ्यासस्य'' ( पनीपद्यते पनीपत्ति ) "नीग्वञ्चु'' इत्यादिना नीक् ( पादयति अपीपदत् अत्पदिष्णुः, ) "अलं कृञ्'' इत्यादिना उत्पूर्वादिष्णुच् केचित्तु "उत्पत'' इति पततिं पठन्ति ( पदनः, ) "जुचङ्क्रम्य'' इत्यादिना युच् (पादुकः) "लषपत'' इत्यादिना उकञ् पद्यत इति ( पादः ) "पदरुज'' इति कर्तरि घञ् पादाभ्यां चरति ( पदिकः ) "पर्पादिभ्यष्ठन्'' इत्यत्र "पादः पच्च'' इति पाठात् ष्ठनि पद्भावाः ( पदिकी ) षित्त्वात्स्त्रियां ङीष् पादार्थमुदकं ( पाद्यम् ) "पादार्घाभ्यां च'' इति यत् पादाय हितम्, तत्र भवं वा ( पद्यम् ) "शरीरावयवाद्यत्'' "शरीरावयवाच्च'' इति योगाभ्यां यत् "पद्यत्यतदर्थे'' इति पादस्य पद्भावः द्वाभ्यां पादाभ्यां क्रीतं (द्विपाद्यम्) "पणपादमाषशताद्यत्'' इति पणाद्यन्ताद् द्विगोः प्राग्वतीयेष्वर्थेषु यत् "पद्यत्यतदर्थे'' इत्यत्र शरीरावयववाचिनो ग्रहणान्नेह पद्भावः ( पच्छः ) "संख्यैकवचनात्'' इतिवीप्सायां शस् "ऋचश्शे'' इति ऋक्सम्बन्धिनः पादशब्दस्य पद्भावः द्वौ द्वौ पादौ लभते द्विपदिकां लभते, ''पादशतस्य सङ्ख्यादेर्वीप्सायां वुञ् लोपश्च'' इति पादशतयोरन्यतरस्यां सङ्ख्यादेस्समासाद् वीप्सायां वुन्, अन्तस्य च लोपः "यस्य'' इति लोपेनैव सिद्धेऽन्तलोपवचनमनैमित्तिकत्वार्थम् तेनाल्लोपस्य स्थानिवत्त्वाभावात् "पादः पत्'' इति भसंज्ञानिमित्तः पद्भावस्सिद्ध्यति "यस्य'' इति लोपे हि तस्य पूर्वविधौ स्थानिवत्त्वात् पाच्छब्दान्तमङ्गं भसंज्ञं न स्यात् प्रकृत्युपाधिरपि वीप्सा तद्धितेन द्योत्यत इति "तद्धितार्थ'' इति समासः अत एव "नित्यवीप्सयोः'' इति द्विर्वचनं न भवति द्वौ पादौ दण्डयति ददाति वा ( द्विपदिकां ) दण्डयति ददाति "दण्डव्यवसर्गयोश्च'' इति वुन् व्यवसर्गो दानम् अवीप्सार्थोऽयमारम्भः व्याघ्रस्येव पादावस्य ( व्याघ्रपात्, श्येनपात् ) "पादस्य लोपोऽहस्त्यादिभ्यः'' इति हस्त्यादिव्यतिरिक्तोपमानपूर्वपदस्य पादान्तस्यान्तस्य लोपः समासान्तः व्याघ्रपदोऽपत्यं ( वैयाघ्रपद्यः, ) गर्गादित्वाद्यञ् पूर्ववत्पद्भाव' स च "निर्दिश्यमानस्यादेशा भवन्ति' इति पाच्छब्दस्यैव भवति, न तु तदन्तस्य "न य्वाभ्याम्'' इत्यैजागमो वृद्धिनिषेधश्च ( कुम्भपदी, घृतपदी ) "कुम्भपदीषु च'' इति पादान्त्यलोपस्समासान्तः कुम्भपद्यादिषु साध्येषु पादान्त्यलोप इत्यक्षरार्थः अत्र अहुवचननिर्देश आद्यर्थावगतपये आद्यर्थसङ्ग्रहीताश्च गणपाठ एव द्रष्टव्याः कुम्भादिभ्यः पादस्य लोप इति वक्तव्ये समुदायपाठो विषयनियमार्थः तत्र ये उपमापूर्वाः कुम्भपद्यादयो, ये च शतपद्यादयः सङ्ख्यापूर्वास्तेषां यथाक्रमं "पादस्य लोनपः'' "सङ्ख्यासुपूर्वस्य'' इति सिद्धे लोपे पुनः पाठात् स्त्रियां नित्यं ङीबेव भवति, न तु ( व्याघ्रपात्, व्याघ्रपदी द्विपात्, द्विपदी) इत्यादिवत् "पादोऽन्यतरस्याम्'' इति पाच्छब्दान्तस्य विधीयमानो ङीब्बिकल्पः ये त्वनुपमानसङ्ख्यापूर्वाः घृतपद्यादयस्तेषामपि स्त्रीत्वविशिष्टानां पाठाद् स्त्रियामेव पद्भावो नित्यश्च ङीप् अष्टापदीशब्दस्यात्र पाठात् "अष्टनस्संज्ञायाम्'' इति वा पूर्वपदस्य दीर्घः अत्र सुधाकरः "सङ्ख्यासुपूर्वस्य'' इति पाद ( 1 ) ( 1 ) पादान्तस्य लोप इति क्रचित्, पादोऽन्त्यलोप इत्यपि कुत्रचित् दृश्यते स्यान्त्यलोपे "पादोऽन्यतरस्याम्'' इति ङीपि सुपदीशब्दे सिद्धे कुम्भपदीषु पाठः स्त्रियां स्ङ्ख्योपमानपूर्वपदस्य नित्यं ङीबर्थः तेन "सुपादद्विरदनासोरूः' इति भट्टिप्रयोगश्चिन्त्य इत्याह (द्विपात्, द्विपदी सुपात्, ) "सङ्ख्यासुपूर्वस्य'' इति पादान्त्यलोपस्समासान्तः "पादोऽन्यतरस्याम्'' इति वा ङीपि भत्वं पद्भावः स्त्रियां डीबेव सुपाच्छब्दस्येतीदानीमेवोक्तम् ( द्विपदा ) ऋक्., "टाबृचि'' पादान्तस्य ऋच्यभिषेयायां टापि पद्भावः पूर्ववत् ( पदाजिः, पदातिः, पदगः, पदोपहतः, ) "पादस्य पदाज्यातिगोपहतेषु'' इति पादशब्दाद् आज्यादिषूत्तरपदेषु पदादेशः ( पद्विमम्, पत्काषी, पद्धतिः ) "हिमकाषिहतिषु च'' इति हिमादिषूत्तरपदेषु पद्भावः चकारान्निष्के च, ( पन्निष्कः पादघोषः, पद्धोषः पादमिश्रः पन्मिश्रः पादशब्दः, पच्छब्दः,) "वा घोषमिश्रशब्देषु'' इति वा पद्भावः (सम्पत्) सम्पदादित्वात्क्विप् क्तिन्नपीष्यते, (सम्पत्तिः) इति ( पदम्, "खनो घ च'' इति चकारात्करणादौ घः पदान्यधीते वेद वा ( पदकः, ) "क्रमादिभ्यो वुन्'' इति वुन् ( पद्याः ) पांसवः, "पदमस्मिन्दृश्यम्'' इति प्रथमान्ताद् दृश्यत्वोपाधिकास्मिन्निति सप्तम्यर्थे यत् "पद्यत्यतदर्थे'' इति पद्भावः ( पूर्वपदिकः ) "इकन् बहुलं पदोत्तरपदात्'' इत्यध्येतृवेदित्रोरिकन् अनुपदं धावति ( आनुपदिकः, ) "माथोत्तरपदपदव्यनुपदं धावति'' इति द्वितीयासमर्थाट्ठक् पूर्वपदं गृह्णातीति (पौर्वपदिकः) "पूर्वपदं गृह्वाति'' इति पदोत्तरपदाट्ठक् आप्रपदं प्राप्नोति (आप्रपदीनः) पटः, आप्रपदं प्राप्नोति'' इति द्वितीयान्तात्खः शरीरेणासम्बद्धस्यापि पटादेः प्रमाणमाख्यायते पादस्याग्रं (प्रपदम्)अत एव निर्देशात्समासः, पूर्वनिपातश्च (आप्रपदात्) "आङ्मर्यादाभिविध्योः'' इत्यव्ययीभावः ( अनुपदीना ) उपानत्, "अनुपदसर्वान्न'' इति बद्धेत्यर्थे खः यस्य चायामःइत्यव्ययीभावसमासः अनुर्यस्यायामवाची तेन लक्षणभूतेनानुस्ममस्यते इति सूत्रार्थः इति च पदायाम उपानदायामस्य लक्षणम् सप्तभिः पर्देरेवाप्यते ( साप्तपदीनं ) सख्यम्, "साप्तपदीनं सख्यम्'' इति निपात्यते (अनपदम्) अन्वेष्टा ( अनुपदी ) गवाम्, "अनुपद्यन्वेष्टा'' इतीन्नन्तो निपात्यते अनोः पश्चादर्थेऽव्ययीभावः गवामिति पदापेक्षया षष्ठी नित्यसापेक्षत्वात्समासः एण्या इव पादावस्य अजस्येव पादावस्य, प्रोष्ठो गौः, तस्येव पादावस्य (एणीपदः, अजपदः, प्रोष्टपदः, ) "सुबात'' इत्यादिनाच्प्रत्ययः पद्भावश्च निपात्यते एणीपदाजपदयोः पद्भाव इति निपातनफलं वदतो हरदत्तस्य प्रोष्ठपदेति पाठो नाभिमतः प्रतीषते (पूर्वे प्रोष्ठपदे, पूर्वाः प्रोष्ठपदाः,) "फल्गुनीप्रोष्ठपदानां च नक्षत्रे'' इति नक्षत्रे वर्तमानयोर्द्वित्वे वा बहुवचनम् प्रोष्ठपदाभिर्युक्तः कालः, ( प्रोष्ठपदः, ) प्रोष्ठपदाशब्दस्तत्सहचरिते चन्द्रमसि वर्तते तत्र "नक्षत्रेण युक्तः कालः'' इत्यणि तस्य "लुबविशेषे'' इति लुप् "लुपि युक्तवद्व्यक्तिवचने'' इति कालस्य स्त्रीत्वबहुत्वे, तासु जातः ( प्रोष्ठपादः ) "सन्धिवेला'' इत्यादिनाऽण् "जे प्रोष्ठपदानाम्'' इति जातार्थे वृद्धिनिमित्ते तद्धिते परत उत्तरपदस्य वृद्धिःगेहानुप्रपादमास्ते गेहंगेहमनुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादमास्ते "विशिपतिपदि'' इत्यादिना णमुल् "तृतीयाप्रभूतीनि'' इति समासविकल्पः समासे "नित्यवीप्सयोः'' इति द्विर्वचनं न भवति;तयोस्तेनैवोक्तत्वात् आभीक्ष्ण्ये क्त्वापीष्यते, गेहमनुप्रपद्यास्त इति सूत्रार्थो भूवादावुपपादितः ( सम्पादी ) णिनिः ( साम्पाद्यम् ) ब्राह्मणादित्वाद्भावकर्मणोः ष्यञ् जीविकामापन्नः ( जीविकापन्नः, ) आपन्नो जीविकाम् ( आपजीविकः, ) "द्वितीयाश्रित'' इति "प्राप्तापन्ने च द्वितीयया'' इति च तत्पुरुषः "प्राप्तापन्ने च'' इत्यत्र लिङ्गविशिष्टरिभाषया ऽऽपन्नशब्दस्य समासोऽपि (आपन्नजीविकः) इत्येव तत्र हि प्राप्तापन्ने अ च इत्यकारः प्रश्लिष्यते, स चान्त्यादेशः सौत्रत्वाच्च न प्रकृतिभावः सम्पद्यत इति ( सम्पद्यः) "अभूततदभावे'' इति सूत्रे निपातनात् शः ततश्श्यन् ( पादूः ) "णित्क्रसिपद्यतेः'' इत्यूकारप्रत्यये णित्त्वाद्वृद्धिः ( पादुका ) संज्ञायां कनि "के णः'' इति ह्रस्वः ( पद्यम् ) "अर्तिस्तु'' इत्यादिना मन् ( पद्यिनो )"पुष्करादिभ्यो देशे'' इति मत्वर्थीय इनिः ( पद्यवती, पद्या ) "अर्श आदिभ्योऽच्'' इति मत्वर्थऽच्, टाप् अयं कथादावपि 61