उभयतोभाषोनुदात्तः।
डुदाञ्
दाने
उभयतोभाषोनुदात्तः प्रणिददाति, दत्तः, ददति, ददासि, दत्थः, दत्थ, ददामि, दद्वः,) "श्नाभ्यस्तयोः'' इत्याल्लोपः क्ङिति सार्वधातुके "ई हल्यघोः'' इत्यभ्यस्ताकारस्य विधीयमानमीत्वं तत्रैव अघोरिति प्रतिषेधान्न प्रसजति ( 1 ) ( 1 ) प्रणिददातीत्यधिकं पुस्तकान्तरे "नेर्गद'' इति णत्वम् ( ददौ, ददतुः, ददुः, ददाथ, ददिथ, दद, ददौ, ददिव ) क्रादिनियमादिट् थलि भाद्वाजनियमाद्विकल्पः "आत औ णलः'' "आतो लोप इटि च'' ( दाता दास्यति ददातु, दत्तात्, दत्ता, ददतु, देहि, ददानि, दत्तात् ) इत्यत्र "घ्वसोरेद्धौ'' इत्यस्मात्परत्वात् तातङि पुनर्न तस्य प्रवृत्तिः सकृद्गतपरिभाषया (अददात्, अदत्ताम् अददुः) "सिजभ्यस्त'' इति नित्यं जुस् (अददाः अददाम्, अदद्व दद्यात्, दद्यातां, दद्याः दाद्यम्, दद्याव) आशिषि ( देयात्, देयास्ताम् ) घुत्वाद् "एर्लिङि'' इत्येत्वम् ( अदात् अदाताम्, अदुः ) "आत'' इति झेर्जुसि पररूपम् ( अदाः, अदाम्, अदाव ) "गातिस्था'' इति सिचो लुक् ( दत्ते, ददाते, ददते, दत्से, दध्वे, ददे, दद्वहे ददाते, ददिषे दाता दास्यते दत्तां, ददातां दत्स्व, दध्वम्, ददै, ददावहै अदत्त, अददाताम्, अददत, अदत्थाः, अददि, अदद्वहि ददीत, ददीयातां, ददीथाः, ददीय ) आशिषि ( दासीष्ट ) आर्धधातुकत्वेऽपि अकित्त्वादेत्वं न भवति "श्नाभ्यस्तयोः'' इत्याल्लोपस्तु अनभ्यस्तत्वादि न भवति (अदित, अदिषाताम्, अदिथाः, अदिषि ) "स्थाघ्वोरिच्च'' इत्यात्मनेपदपरस्य सिचः कित्त्वं धातोश्चेत्वम् झलि "ह्रस्वादङ्गात्'' इति सिज्लोपः सन्निपातपरिभाषाभावः प्रागेवोक्तः ( आदत्ते ) "आङो दोनास्यविहरणे'' इत्यकर्त्रभिप्रायेऽपि तङ् "आङ'' इति निर्देशाद् अङित्तोवाक्यस्मरणविस्मयात्परस्य न तङिति के चित् "अनास्यविहरणे'' इति पर्युदासः "स्वाङ्गकर्मकाच्च'' इति वक्तव्यात्स्वाङ्गकर्मकविषय इति ( व्याददते पिपीलिका पतङ्गस्य मुखम् ) इत्यत्रापि तङेव स्वाङ्गकर्मकत्वे तु स्वमुखं व्याददाति व्यादत्ते इत्युभयमपि यथायोगं भवति सुधाकरस्तु "आङो दो'' इति योगविभागादनास्यविहरणइत्यनेन व्यवहितापि प्राप्तिपरानुद्यते एवमेव चन्द्राः प्रतिपेदिरइति ङित्त्वनिमित्तमपि तङमत्र नेच्छति आत्रेयस्तु कर्त्रभिप्राये तङेवेति अयं च योगविभागो भाष्ये न दृश्यते किञ्च "आङो दोऽनास्य'' इत्येवास्ये धातोर्वृत्सम्भवात् तत्समवायिन्यां विहरणक्रियायां वर्तमानत्तङ्निषेधे सिद्धे पुनर्विहरणग्रहणं विपादिकां( 2 ) ( 2 ) कुलं व्याददातीत्यधिकं बहुषु पुस्तकेषु व्याददातीत्यादावास्यविहरणसमानक्रियादपि प्रतिषेधार्थ इति भाष्ये उक्तम् तत्रैव कैय्यटपदमञ्जर्योरास्यइत्युच्यमाने तत्समवायिक्रियामात्रं लभ्यते न विहरणमेबेति स्वं मुखमादत्तइत्यत्रापि ग्रहणस्य मुखसमवायित्वात् प्रतिषेधस्स्यादिति दोषमुद्भाव्य "अनास्य'' इत्यास्यपर्युदासत्वाद्ग्रहणस्य च ग्राह्यग्रहीतृविषयत्वादनास्यक्रियत्वान्न दोष इति परिहृतम् प्रसज्यप्रतिषेधे ह्यास्यसमवायित्वाश्रयेण प्रतिषेधेन भाव्यत्वाद् दोष एव स्यादिति भाष्यकृतोऽप्ययमनभिमतः प्रतीयते किञ्च स्वं मुखमादत्तइति तङ्नस्यादिति दोषा( 3 ) ( 3 ) अनिष्टापादनमिति क्वचित् पादानमप्युक्तं स्यात् (दित्सति, दित्सते,) "सनि मीमा'' इतीस्भावे "अत्र लोप'' इत्यभ्यासलोपः "सस्यार्धधातुके'' इति तत्वम् ( देदीयते, ) ईत्वे द्विर्वचनम् दादेति, दादाति,दत्तः, ) क्ङिति "श्नाभ्यस्तयोः'' इत्याल्लोपः ( दापयति अदीदपत् ददः ) "ददातिदधात्योर्विभाषा'' इति कर्तरि शे शपः श्लुः शाभावे "श्याद्व्यध'' इति णे युकि (दायः)"तदर्हम्'' इति निर्देशात् क्कचित्कृद्योगे द्वितीया भवतीति "दायै रामोदमुत्तमम्' इति भट्टिप्रयोगं निर्वहन्ति दीयतइति ( दायः, ) घञ्, तमादत्तइति ( दायादः ) मूलविभुजादित्वात् कः ( गवां दायादः गोषु दायादः ) "स्वामीश्वर'' इति षष्ठीसप्तम्यौ दायादेर्नादीयमानं ( दायाद्यम् ) ब्राह्मणादित्वात् ष्यञ् तत्र हि कर्मग्रहणेन साधनकर्मापिगृह्यते ( आदिः ) "उपसर्गे घोः किः'' इति किः आदौ भवम् ( आदिमम् ) [ आदेश्च ] इत्युपसङ्ख्यानाद् मप्रत्ययः ( आद्यः ) दिगादित्वाद्यत् ( आदितः ) [ आद्यादिभ्य उपसङ्ख्यानम् ] इति सार्वविभक्तिकस्तसिः ( दत्रिमम् ) "ड्वितः कित्रः'' "क्त्रेर्मम्न्नित्यम्'' अन्येषु साधारणेषु कृत्सु दाण इव रूपं नेयम् तथा घुसंज्ञाकार्यमपि दाण् दाने, देङ् रक्षणे, दैप् शोधने, त्रयं भूवादौ, दाप् लवने इत्यदादौ 9