स्त्यै
ष्ट्यै
शब्द,संघातयो
एको दन्त्यादिः परो मूर्द्धन्यादिः षोपदेशलक्षणपर्युदास एक एव गृह्मते उभयोः पाठवैयर्थ्यप्रसङ्गात् अत्रार्थयोर्यथासंख्यं न भवति पृथग् निर्देशात् ( स्त्ययति तस्त्यावित्यादि, ) ग्लैवत् षोण्देशस्यापि "धात्वादेः षः सः''इदमेव रूपम् प्रयोजनं जतु तिष्ठ्यासति अष्ट्यिपत् ) इत्यादावादेशसकारत्वात् षत्वम् यत्तु मैत्रेयसम्मताकाश्यपादिभिरुक्तं पुनः पाठफलं "धात्वादेः षः सः'' इति सत्वाभावे दन्त्यपराः सादयः षोपदेशा इति लक्षणस्याव्याप्तिप्रसङ्गादुपेक्ष्यम् पाठे षोपदेशानां प्रयोगे सादित्वादजन्त्यपरत्वं हि लक्षणं, व्यापकेन च नाम लक्षणेन भवतिव्यम् ( प्रस्तीतः प्रस्तीवान्प्रस्तीमवान् ) "स्त्यः प्रपूर्वस्य'' इति निष्ठायां संप्रसारणे परपूर्वत्वदीर्घत्वयो "प्रस्त्योन्यतरस्याम्'' इति प्रोपसृष्टादस्मात्पराया निष्ठायास्तकारस्य पक्षं मकारः मकाराभावे "संयोगादेः'' इति निष्ठानत्वस्य "स्त्यः'' इति संप्रसारणे पूर्वत्रासिद्धत्वात् कृते च तस्मिन् यण्वत्त्वाकारान्तत्वयोरभावादप्रसङ्गः प्रस्त्य इति लघु वक्तव्ये "स्त्यः प्रपूर्वस्य'' इति वचनं प्रशब्दोय्रस्माद्धातूपसर्गसमुदायात्पूर्वं इत्याश्रयणार्थम् इत्याश्रथणार्थम् तेन ( प्रसंस्तीत ) इत्यादावन्योपसर्गव्यवधानेपि, संप्रसारणं भवति मत्वं तु "प्रस्त्यः'' इति निर्देशाद्व्यवहिते न भवति ( स्त्यानः, संस्त्यान ) इत्यादौ प्रस्त्याभावान्न संप्रसारणं, नापि मत्वं, संप्रसारणविधौ षोपदेशोप्ययं स्त्यायो गृह्मतइति वृत्त्यादौ, तेन तस्यापि निष्ठायामुक्तान्येवोदाहरणानि द्रष्टव्यानि ये ऽस्य सत्वं नेच्छन्ति तेषां स्त्यारूमापन्नयोद्वेयोर्गंह इति वृत्त्यादिमहाग्रन्थविरोधश्च न च तस्य प्रकृतिवदुकरणमिति स्तृयारूपत्वं यतस्तैः प्रकृताचेव सत्वं नाभ्युपगम्यते स्त्यायति संहन्यते ऽस्यां गर्भ इति (स्त्री) संस्त्याने "स्त्यायतेर्ड्रट्'' इति डुटि डित्त्वाट्टिलोपे वलि लोपे च टित्त्वान्ङीप् अग्जादौ "स्त्रियाः'' इतीयङि ( स्त्रियावित्यादि ) अम्शसीस्तु "वाम्शसोः'' इति इयङ्विकल्पनात् ( स्त्रीम् स्त्रियम् स्त्रियः स्त्रीरिति ) प्रथमयोः पूर्वसवर्णदीर्घो भवति "नेयङुवङ्'' इत्यत्र अस्त्रीति निषेधादियङ्स्थानत्वेपि नदीत्वात् ( स्त्रियै स्त्रियामित्यत्र )"आण् नद्याः'' इति ङेराम् भवति तथा ( स्त्रीणाम् ) इत्यत्र "ह्रस्वनद्यापो'' इति नुड् भवति ( हे स्त्रि ) इत्यत्र "अम्बाथनद्योः'' इति हस्वो भवति स्त्रियाः संबन्धि ( स्त्रैणम् ) स्त्रीपुंसाभ्यां नञ्स्त्रञौ भवनात्आभ्यां यथासंख्यं प्राग्भवीयार्थेषु तत्तदर्थानुकूलसमर्थविभक्तिभ्यां नञ्स्नञाविति नञ् ( स्त्रीत्वम् स्त्रीता ) "आ च त्वात्'' चकारेण त्वतलोरभ्यनुज्ञानत् त्वतलौ स्त्रीवन्म भूमेति भाष्यकारप्रयोगाद्वतिस्साधुः "स्त्री पुंवच्च'' इतृयादिनिर्देशस्य प्रयोगापेक्षत्वाद्वा अत्र विषये बाधकान्येव निपातनानीति नञ् स्नञौ बाध्येते यथ सर्वानामेत्यत्र णत्वम्परस्त्रिया अपत्यं, ( पारशवम् ) परस्त्री परशुं चेति शिवादिवाठादपत्ये परशुभावश्च ( पारस्त्रीणेयम् ) "कल्याण्यादीनामिनङ्'' इति ढकि ण्यादेशोन्त्यस्येनङ् अनुशतिकादित्वादभयपदवृद्धिः कुस्त्रिया भावः कर्म वा ( कौस्त्रम् ) युवादित्वादण् एवं ( दौस्त्रम् स्त्रीतरा, स्त्रितरा ) "नद्याः शेषस्य'' इति हस्वो वा सूत्रार्थश्च ज्वलत्यादौ द्रष्टव्यः ( 1 ) ( 1 ) व्याख्यात इति 2 पुव ( स्तुपः उच्छ्रायः ) "स्त्यः सम्प्रसारणमुच्चः'' इति पप्रत्ययः, प्रसारणपूर्वात्वे तस्य चेकारस्य उकारो दीर्घाः उच्चेत्येव वक्तव्ये दीर्घविधानं ह्रस्वस्यापि श्रवर्णं, तेन ( स्तुपः ) इत्यपि भवति 895