Sanskrit Corpus Reader
Version 3.64 [2025-01-20]
Nala
/
बृहदश्व उवाच| आसीद्राजा नलो नाम वीरसेनसुतो बली| उपपन्नोगुणैर् इष्टै रूपवान् अश्वकोविदः
अतिष्ठन् मनुजेन्द्राणां मूर्ध्नि देवपतिर् यथा| उपर्युपरि सर्वेषाम् आदित्य इव तेजसा
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः| अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः
ईप्सितो नरनारीणाम् उदारः संयतेन्द्रियः| रक्षितो धन्विनां श्रेष्ठः साक्षाद् इव मनुः स्वयम्
तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः| शूरः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः
स प्रजार्थे परं यत्नम् अकरोत् सुसमाहितः| तम् अभ्यगच्छद् ब्रह्मर्षिर् दमनो नाम भारत
तं स भीमः प्रजाकामस् तोषयामास धर्मवित्| महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ कन्यारत्नं कुमारांश् च त्रीन् उदारान् महायशाः
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्| उपपन्नान् गुणैः सर्वैर् भीमान् भीमपराक्रमान्
दमयन्ती तु रूपेण तेजसा यशसा श्रिया| सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम्| शतं शतं सखीनां च तथा पर्युपासच्छचीम् इव
तत्र स्म राजते भैमी सर्वाभरणभूषिता| सखीमध्ये ऽनवद्याङ्गी विद्युत् सौदामनी यथा
अतीव रूपसम्पन्ना श्रीर् इवायतलोचना| न देवेषु न यक्षेषु तादृग् रूपवती क्वचित्
मानुषेष्व् अपि चान्येषु दृष्टपूर्वाथवा श्रुता| चित्तप्रमाथिनी बाला देवानाम् अपि सुन्दरी
नलश् च नरशार्दूलो रूपेणाप्रतिमो भुवि लोकेष्वप्रतिमो भुवि| कन्दर्प इव रूपेण मूर्तिमान् अभवत् स्वयम्
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्| नैषधस्य समीपे तु दमयन्तीं पुनः पुनः
तयोर् अदृष्टकामो ऽभूच्छृण्वतोः सततं गुणान्| अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः
अशक्नुवन् नलः कामं तदा धारयितुं हृदा| अन्तःपुरसमीपस्थे वन आस्ते रहोगतः
स ददर्श ततो हंसाञ् जातरूपपरिष्कृतान्| वने विचरतां तेषाम् एकं जग्राह पक्षिणम्
ततो ऽन्तरिक्षगो वाचं व्याजहार नलं तदा| हन्तव्यो ऽस्मि न ते राजन् करिष्यामि हि तव प्रियम्
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध| यथा त्वद् अन्यं पुरुषं न सा मंस्यति कर्हिचित्
एवम् उक्तस् ततो हंसम् उत्ससर्ज महीपतिः| ते तु हंसाः समुत्पत्य विदर्भान् अगमंस् ततः
विदर्भनगरीं गत्वा दमयन्त्यास् तदान्तिके| निपेतुस् ते गरुत्मन्तः सा ददर्श च तान् गणान्
सा तान् अद्भुतरूपान् वै दृष्ट्वा सखिगणावृता| हृष्टा ग्रहीतुं खगमांस् त्वरमाणोपचक्रमे
अथ हंसा विससृपुः सर्वतः प्रमदावने| एकैकशस् तदा कन्यास् तान् हंसान् समुपाद्रवन्
दमयन्ती तु यं हंसं समुपाधावद् अन्तिके| स मानुषीं गिरं कृत्वा दमयन्तीम् अथाब्रवीत्
दमयन्ति नलो नाम निषधेषु महीपतिः| अश्विनोः सदृशो रूपे न समास् तस्य मानुषाः
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि| सफलं ते भवेज् जन्म रूपं चेदं सुमध्यमे
वयं हि देवगन्धर्वमानुषोरगराक्षसान्| दृष्टवन्तो न चास्माभिर् दृष्टपूर्वस् तथाविधः
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः| विशिष्टाया विशिष्टेन सङ्गमो गुणवान् भवेत्
एवम् उक्ता तु हंसेन दमयन्ती विशां पते| अब्रवीत् तत्र तं हंसं तम् अप्य् एवं नलं वद
तथेत्य् उक्त्वाण्डजः कन्यां विदर्भस्य विशां पते| पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत्
इति नलोपाख्याने प्रथमः सर्गः
बृहदश्व उवाच| दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत| तदा प्रभृति नस्वस्था नलं प्रति बभूव सा
ततश् चिन्तापरा दीना विवर्णवदना कृशा बभूव दमयन्ती तु निःश्वासपरमा तदा
ऊर्ध्वदृष्टिर् ध्यानपरा बभूवोन्मत्तदर्शना| पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्| न नक्तं न दिवा शेते हा| हा| इति रुदती पुनः
ततो विदर्भपतये दमयन्त्याः सखीजनः| न्यवेदयत् ताम् अस्वस्थाम् दमयन्तीं नरेश्वरे
तच्छ्रुत्वा नृपतिर् भीमो दमयन्तीसखीगणात्| चिन्तयामास तत् कार्यं सुमहत् स्वां सुतां प्रति
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्| अपश्यद् आत्मना कार्यं दमयन्त्याः स्वयंवरम्
स सन्निमन्त्रयामास महीपालान् विशां पतिः| अनुभूयताम् अयं वीराः स्वयंवर इति प्रभो
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्| अभिजग्मुस् ततो भीमम् राजानो भीमशासनात्
हस्त्यश्वरथघोषेण पूरयन्तो वसुन्धराम्| विचित्रमाल्याभरणैर् बलैर् दृश्यैः स्वलङ्कृतैः
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम्| यथार्हम् अकरोत् पूजां ते ऽवसंस् तत्र पूजिताः
एतस्मिन्न् एव काले तु सुराणाम् ऋषिसत्तमौ| अटमानौ महात्मानाव् इन्द्रलोकम् इतो गतौ
नारदः पर्वतश् चैव महाप्राज्ञौ महाव्रतौ देवराजस्य भवनं विविशाते सुपूजितौ
ताव् अर्चयित्वा मघवा ततः कुशलम् अव्ययम्| पप्रच्छानामयं चापि तयोः सर्वगतं विभुः
नारद उवाच| आवयोः कुशलं देव सर्वत्रगतम् ईश्वर| लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो
बृहदश्व उवाच| नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा| धर्मज्ञाः पृथिवीपालास् त्यक्तजीवितयोधिनः
शस्त्रेण निधनं काले ये गच्छन्त्य् अपराङ्मुखाः| अयं लोको ऽक्षयस् तेषां यथैव मम कामधुक्
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम्| आगच्छतो महीपालान् अतिथीन् दयितान् मम
एवम् उक्तस् तु शक्रेण नारदः प्रत्यभाषत| शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः
विदर्भराजदुहिता दमयन्तीति विश्रुता| रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः
तस्याः स्वयंवरः शक्र भविता नचिराद् इव| तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः| काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन
एतस्मिन् कथ्यमाने तु लोकपालाश् च साग्निकाः| आजग्मुर् देवराजस्य समीपम् अमरोत्तमाः
ततस् तच् छुश्रुवुः सर्वे नारदस्य वचो महत्| श्रुत्वा चैवाब्रुवन् हृष्टा गच्छामो वयम् अप्य् उत
ततः सर्वे महाराज सगणाः सहवाहनाः| विदर्भान् अभितो जग्मुर् यत्र सर्वे महीक्षितः
नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्| अभ्यगच्छद् अदीनात्मा दमयन्तीम् अनुव्रतः
अथ देवाः पथि नलं ददृशुर् भूतले स्थितम्| साक्षाद् इव स्थितं मूर्त्या मन्मथं रूपसम्पदा
तं दृष्ट्वा लोकपालास् ते भ्राजमानं यथा रविम्| तस्थुर् विगतसङ्कल्पा विस्मिता रूपसम्पदा
ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः| अब्रुवन् नैषधं राजन्न् अवतीर्य नभस्तलात्
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्| अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम
इति नलोपाख्याने द्वितीयः सर्गः
बृहदश्व उवाच| तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत| अथैनान् परिपप्रच्छ कृताञ्जलिर् अवस्थितः
के वै भवन्तः कश् चासौ यस्याहं दूत ईप्सितः| किं च तत्र मया कार्यं कथयध्वं यथातथम्
एवम् उक्ते नैषधेन मघवान् प्रत्यभाषत| अमरान् वै निबोधास्मान् दमयन्त्यर्थम् आगतान्
अहम् इन्द्रो ऽयम् अग्निश् च तथैवायम् अपाम्पतिः| शरीरान्तकरो नॄणां यमो ऽयम् अपि पार्थिव
स वै त्वम् आगतान् अस्मान् दमयन्त्यै निवेदय| लोकपालाः सहेन्द्रास् त्वां समायान्ति दिदृक्षवः
प्राप्तुम् इच्छन्ति देवास् त्वां शक्रो ऽग्निर् वरुणो यमः| तेषाम् अन्यतमं देवं पतित्वे वरयस्व ह
एवम् उक्तः स शक्रेण नलः प्राञ्जलिर् अब्रवीत्| एकार्थसमवेतं मां न प्रेषयितुम् अर्हथ
कथं तु जातसङ्कल्पः स्त्रियम् उत्सहते पुमान्| परार्थम् ईदृशं वक्तुं तत् क्षमन्तु महेश्वराः
देवा ऊचुः| करिष्य इति संश्रुत्य पूर्वम् अस्मासु नैषध| न करिष्यसि कस्मात् त्वं व्रज नैषध माचिरम्
बृहदश्व उवाच| एवम् उक्तः स देवैस् तैर् नैषधः पुनर् अब्रवीत्| सुरक्षितानि वेश्मानि प्रवेष्टुं कथम् उत्सहे
प्रवेक्ष्यसीति तं शक्रः पुनर् एवाभ्यभाषत| जगाम स तथेत्य् उक्त्वा दमयन्त्या निवेशनम्
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्| देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्| आक्षिपन्तीम् इव च भाः शशिनः स्वेन तेजसा
तस्य दृष्ट्वैव ववृधे कामस् तां चारुहासिनीम्| सत्यं चिकीर्षमाणस् तु धारयामास हृच्छयम्
ततस् ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः| आसनेभ्यः समुत्पेतुस् तेजसा तस्य धर्षिताः
प्रशशंसुश् च सुप्रीता नलं ता विस्मयान्विताः| न चैनम् अभ्यभाषन्त मनोभिस् त्व् अभ्यचिन्तयन्
अहो रूपम् अहो कान्तिर् अहो धैर्यं महात्मनः| को ऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति
न तास् तं शक्नुवन्ति स्म व्याहर्तुम् अपि किञ्चन| तेजसा धर्षिताः तस्य लज्जावत्यो वराङ्गनाः
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी| दमयन्ती नलं वीरम् अभ्यभाषत विस्मिता
कस् त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन| प्राप्तो ऽस्यमरवद् वीर ज्ञातुम् इच्छामि ते ऽनघ
कथम् आगमनं चेह कथं चासि न लक्षितः| सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः
एवम् उक्तस् तु वैदर्भ्या नलस् तां प्रत्युवाच ह| नलं मां विद्धि कल्याणि देवदूतम् इहागतम्
देवास् त्वां प्राप्तुम् इच्छन्ति शक्रो ऽग्निर् वरुणो यमः| तेषाम् अन्यतमं देवं पतिं वरय शोभने
तेषाम् एव प्रभावेण प्रविष्टो ऽहम् अलक्षितः| प्रविशन्तं हि मां कश्चिद् अपश्यन् नाप्य् अवारयत्
एतदर्थम् अहं भद्रे प्रेषितः सुरसत्तमैः| एतच् छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि
इति नलोपाख्याने तृतीयः सर्गः
बृहदश्व उवाच| सा नमस्कृत्य देवेभ्यः प्रहस्य नलम् अब्रवीत्| प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन| तत्सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर
हंसानां वचनं यत्तु तन्मां दहति पार्थिव| त्वत्कृते हि मया वीर राजानः सन्निपातिताः
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद| विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्
एवम् उक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह| तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि
येषामहं लोककृतामीश्वराणां महात्मनाम्| न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति| त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा| भूषणानि च मुख्यानि देवान्प्राप्य तु भुङ्क्ष्व वै
य इमां पृथिवीं कृत्स्नां सङ्क्षिप्य ग्रसते पुनः| हुताशमीशं देवानां का तं न वरयेत्पतिम्
यस्य दण्डभयात्सर्वे भूतग्रामाः समागताः| धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम्
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्| महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम्
क्रियतामविशङ्केन मनसा यदि मन्यसे| वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु
नैषधेनैवमुक्ता सा दमयन्ती वचो ऽब्रवीत्| समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा
देवेभ्यो ऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते| वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते
तामुवाच ततो राजा वेपमानां कृताञ्जलिम्| दौत्येनागत्य कल्याणि कथम् स्वार्थमिहोत्सहे
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः| परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे
एष धर्मो यदि स्वार्थो ममापि भविता ततः| एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्
ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता| प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्
उपायो ऽयं मया दृष्टो निरपायो नरेश्वर| येन दोषो न भविता तव राजन् कथं चन
त्वं चैव हि नरश्रेष्ठ देवाश् चाग्निपुरोगमाः| आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः
ततो ऽहं लोकपालानां सन्निधौ त्वां नरेश्वर| वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते| आजगाम पुनस्तत्र यत्र देवाः समागताः
तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः| दृष्ट्वा चैनं ततो ऽपृच्छन्वृत्तान्तं सर्वमेव तत्
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता| किमब्रवीच्च नः सर्वान्वद भूमिपते ऽनघ
नल उवाच| भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्| प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः| ऋते तां पार्थिवसुतां भवतामेव तेजसा
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः| विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः
वर्ण्यमानेषु च मया भवत्सु रुचिरानना| मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः| त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः
तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध| एवं तव महाबाहो| दोषो न भवितेति ह
एतावदेव विबुधास्| यथावृत्तमुदाहृतम्| मया शेषे प्रमाणं तु भवन्तस्| त्रिदशेश्वराः
इति नलोपाख्याने चतुर्थः सर्गः
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा| आजुहाव महीपालान्भीमो राजा स्वयंवरे
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः| त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः
कनकस्तम्भरुचिरं तोरणेन विराजितम्| विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम्
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः| सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः| आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः
सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च| मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि
दमयन्ती ततो रङ्गं प्रविवेश शुभानना| मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्| तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत| ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनथ
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्| सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्| सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी
कथं हि देवाञ् जानीयां कथं विद्यां नलं नृपम्
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता| श्रुतानि देवलिङ्गानि तर्कयामास भारत
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे| तानीह तिष्ठतां भूमावेकस्यापि न लक्षये
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः| शरणं प्रति देवानां प्राप्तकालममन्यत
वचसा मनसा चैव नमस्कारं प्रयुज्य सा| देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः| पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे
वचसा मनसा चैव यथा नाभिचराम्यहम्| तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे
यथा देवैः स मे भर्ता विहितो निषधाधिपः| तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
यथेदं व्रतमारब्धं नलस्याराधने मया| तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः| यथाहम् अभिजानीयां पुण्यश्लोकं नराधिपम्
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्| यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्| हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः| भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत| नैषधं वरयामास भैमी धर्मेण पाण्डव
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना| स्कन्धदेशे ऽसृजत्तस्य स्रजं परमशोभनाम्
वरयामास चैवैनं पतित्वे वरवर्णिनी| ततो हा| हा| इति सहसा शब्दो मुक्तो नराधिपैः
देवैर् महर्षिभिश्चैव साधु साध्विति भारत| विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024